विषापहारस्तोत्रम् (Vishaphar strota)
स्वात्म-स्थितः सर्व-गतः समस्त-व्यापार-वेदी विनिवृत्त-संगः
प्रवृद्व - कलोऽप्यजरो वरेण्यः पायादपायात्पुरुषः पुराणः 1
परैचिन्त्यं युग-भारमेकः स्तोतुं वहन्योगिभिरप्यशक्यः
स्तुत्योऽद्यमेऽसौ वृषभो न भानोः किमप्रवेशे विशति प्रदीपः2
तत्याज शक्रः शकनाभिमांन नाहं त्यजामि स्तवनानुबन्धम्
स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरुपयामि3
त्वं विश्र्वद्दश्र्वा सकलैरद्दश्यो विद्वानशेषं निखिलैरवेद्यः
वक्तुं कियान्कीद्दश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु4
व्यापीडितं बालमिवात्म-दोषैरुल्लाघतां लोकमवापिपस्त्वम्
हिताहितान्वेषणमान्द्यभाजः सर्वस्य जन्तोरसि बाल-वैद्यः5
दाता न हर्ता दिवसं विवस्वानद्यश्र्व इत्यच्युत दर्शिताशः
संव्याजमेवं गमयत्यशक्तः क्षणेन दत्सेऽभिमतं नताय 6
उपैति भक्त्या सुमुखः सुखानि त्वयि स्वभावाद्विमुखश्र्च दुःखम्
सदावदात-द्युतिरेकरुपस्तयोस्त्वमादर्श इवावभासि 7
अगाधताब्धेः स यतः पयोधिर्मेरोश्र्च तुंगा प्रक्रतिः स यत्र
द्यावाप्रथिव्योः प्रथुता तथैव व्याप त्वदीया भुवनान्तराणि8
तवानवस्था परमार्थ-तत्त्वं त्वया न गीतः पुनरागमश्च
द्दष्टं विहाय त्वमद्दष्टमैषीर्विरुद्ध-व्रत्तोऽपि समञ्जसस्त्वम्9
स्मरः सुदग्धो भवतैव तस्मिन्नुद् भूलितात्मा यदि नाम शम्भुः
अशेत व्रन्दोपहतोऽपि विष्णुः किं ग्रह्यते येन भवानजागः 10
स नीरजाः स्यादपरोऽघवान्वा तद्दोषकीत्यैर्वनते गुणित्वम्
स्वतोऽम्बुराशेर्महिमा न देव स्तोकापवादेन जलाशयस्य11
कर्मस्थितिं जन्तुरनेक-भूमिं नयत्यमुं सा च परस्परस्य
त्वंनेतृ-भावंहि तयोर्भवाब्धौ जिनेन्द्र नौ-नाविकयोरिवाख्यः12
सुखाय दुःखानि गुणाय दोषान्धर्माय पापानि समाचरन्ति
तैलाय वालाः सिकता-समूहं निपीडयन्ति स्फुटमत्वदीयाः13
विषाप हारं मणिमौषधानि मन्त्रं समुद्दिश्य रसायनं च
भ्राम्यन्त्यहोन त्वमिति स्मरन्ति पर्याय-नामानि तवैव तानि14
चित्ते न किञ्चित्कृतवानसि त्वं देवः कृतश्र्चेतसि येन सर्वम्
हस्ते क्रतं तेन जगद्विचित्र सुखेन जीवत्यपि चित्तबाह्यः15
त्रिकाल-तत्त्वंत्वमवैस्त्रिलोकी-स्वामीति संख्या-नियतेरमीषाम्
बोधाधिपत्यंप्रति नाभविष्यस्तेऽन्येऽपिचेद् व्याप्स्यदमूनपीदम्16
नाकस्य पत्युः परिकर्म रम्यं नागम्यरुपस्य तवोपकारि
तस्यैव हेतुः स्वसुखस्य भानोरुद्विभ्रतच्छत्रमिवादरेण17
क्वोपेक्षकस्त्वं क्व सुखोपदेशः स चेत्किमिच्छा-प्रतिकूल-वादः
क्वासौ क्व वा सर्वजगत्प्रियत्वं तन्नो यथातथ्यमवेविचं ते 18
तुगांत्फलं यत्तदकिञ्चनाच्च प्राप्यं सम्रद्धान्न धनेश्र्वरादेः
निरम्भसोऽप्युच्चतमादिवाद्रेर्नैकापि निर्याति धुनी पयोधेः19
त्रैलोक्य-सेवा-नियमाय दण्डं दध्रे यदिन्द्रो विनयेन तस्य
तत्प्रातिहार्यं भवतः कुतस्त्यं तत्कर्म-योगाद्यदि वा तवास्तु20
श्रिया परंपश्यति साधु निःस्वः श्रीमान्न कश्र्चित्कृपणंत्वदन्यः
यथा प्रकाश-स्थितमन्धकारस्थायीक्षेऽसौ न तथा तमः स्थम्21
स्ववृद्धिनिःश्र्वास-निमेषभाजि प्रत्यक्षमात्मानुभवेऽपि मूढः
किं चाखिल-क्षेय-विवर्ति-बोधस्वरुपमध्यक्षमवैति लोकः22
तस्यात्मजस्तस्य पितेर्तिदेव त्वां येऽवगायन्ति कुलंप्रकाश्य
तेऽद्यपि नन्वाश्मनमित्यवश्यं पाणौ कृतं हेम पुनस्त्यजन्ति23
दत्तस्त्रिलोक्यां पटहोऽभिभूताः सुरासुरास्तस्य महान् सलाभः
मोहस्य मोहस्त्वयि को विरोद्धुर्मूलस्य नाशो बलवद्विरोधः24
मार्गस्त्वयैको दद्दशे विमुक्तेश्र्चतुर्गतीनां गहनं परेण
सर्वं मया द्दष्टंमिति स्मयेन त्वं मा कदाचिभ्द्रुजमालुलोक25
स्वर्भानुरर्कस्य हविर्भुजोऽम्भः कल्पान्तवातोऽम्बुनिधेर्विघातः
संसार-भोगस्य वियोग-भावो विपक्ष-पूर्वाभ्युदयास्त्वदन्ये26
अजानतस्त्वां नमतः फलं यत्तज्जानतोऽन्यं न तु देवतेति
हरिन्मणिं काचाधिया दधानस्तं तस्य बुद्धयां वहतो न रिक्त27
प्रशस्त-वाचश्र्चतुराः कषायैर्दग्धस्य देव-व्यवहारमाहुः
गतस्य दीपस्य हि नन्दितत्वं द्दष्टं कपालस्य च मगंलत्वम्28
नानार्थमेकार्थमदस्त्वदुक्तं हितं वचस्ते निशमय्य वक्तुः
निर्दोषतां के न विभावयन्ति ज्वरेण मुक्तः सुगमः स्वरेण29
न क्कापि वाञ्छा ववृते च वाक्ते काले क्कचित्कोऽपि तथा नियोगः
न पूरयाभ्यम्बुधिमित्युदंशुः स्वयं हि शीतद्युतिरभ्युदेति
30गुणा गभीराः परमाः प्रसन्ना बहु-प्रकारा बहवस्तवेति
द्दष्टोऽयमन्तः स्तवने न तेषां गुणो गुणानां किमतः परोऽस्ति31
स्तुत्या परंनाभिमतं हि भक्त्या स्मृत्या प्रणत्या च ततो भजामि
स्मरामि देवं प्रणमामि नित्यं केनाप्युपायेन फलं हि साध्यम् 32
ततस्त्रिलोकी-नगराधिदेवं नित्यं परं ज्योतिरनन्त-शक्तिम्
अपुण्य-पापं पर-पुण्य-हेतुं नमाभ्यहं वन्द्यमवन्दितारम्33
अशब्दमस्पर्शमरुप-गन्धं त्वां नीरसं तद्विषयावबोधम्
सर्वस्य मातारममेयमन्यैर्जिनेन्द्रमस्मार्यमनुस्मरामि34
अगाध मन्यैर्मनसाप्यलग्घयं निष्किञ्चनं प्रार्थितमर्थवभ्दिः
विश्र्वस्य पारं तमद्दष्टपारं पतिं जनानां शरणं ब्रजामि 35
त्रैलोक्य-दीक्षा-गुरवे नमस्ते यो वर्धमानोऽपि निजोन्नतोऽभूत्
प्राग्गण्डशैलः पुनरद्रि-कल्पः पश्र्चान्न मेरुः कुल पर्वतोऽभूत्36
स्वयंप्रकाशस्य दिवा निशा वा न बाध्यता यस्य न बाधकत्वम्
न लाघवं गौरवमेकरुपं वन्दे विभुं कालकलामतीतम् 37
इति स्तुतिं देव विधाय दैन्याद्वरं न याचे त्वमुपेक्षकोऽसि
छायातरुंसंश्रयतः स्वतः स्यात्कश्छायया याचितयात्मलाभ38
अस्थास्ति दित्सा यदि बोपरोधस्त्वय्येव सक्तां दिश भक्ति-बुद्धिम्
करिष्यते देव तथा कृपा मे को वात्मपोष्ये सुमुखो न सूरिः 39
वितरति विहिता यथाकथञ्चिज्जिन विनताय मनीषितानि भक्तिः
त्वयि नुति-विषया पुनर्विशेषाद्दिशति सुखानि यशो 'धनं जयं' च40
09 मार्च 2010
जैन धर्म दर्शन - विषापहारस्तोत्रम्
Posted by Udit bhargava at 3/09/2010 08:28:00 am
सदस्यता लें
टिप्पणियाँ भेजें (Atom)
एक टिप्पणी भेजें